मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७०, ऋक् १

संहिता

घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥

पदपाठः

घृ॒तव॑ती॒ इति॑ घृ॒तऽव॑ती । भुव॑नानाम् । अ॒भि॒ऽश्रिया॑ । उ॒र्वी इति॑ । पृ॒थ्वी इति॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । सु॒ऽपेश॑सा ।
द्यावा॑पृथि॒वी इति॑ । वरु॑णस्य । धर्म॑णा । विस्क॑भिते॒ इति॒ विऽस्क॑भिते । अ॒जरे॒ इति॑ । भूरि॑ऽरेतसा ॥

सायणभाष्यम्

द्यावापृथिवी हे द्यावापृथिव्यौ घृतवती दीप्तिमत्यौ उदकवत्यौ वा वनं घृतमित्युदकनामसु पाठात् भवतइति शेषः भुवनानां भूतानाम- भिश्रिया अभिश्रयणीये भवत इति सर्वत्रानुसंबन्धनीयं उर्वी विस्तोर्णं पृथ्वी बहुकार्यरूपेण प्रथिते च मधुदुघे मधुनउदकस्य दोग्ध्र्यौ सुपेशसा सुरूपे वरुणस्य सर्वस्य नियामकस्य धर्मणा धारणेन विष्कभिते पृथग्धारिते अजरे नित्ये भूरिरेत सा बहुरेतस्के बहुकार्ये वा भवतः । अत्र साक्षात् द्यावापृथिव्योः स्तुतिप्रसंगात् वरुणस्येति द्रष्टव्यं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४