मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७०, ऋक् ३

संहिता

यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति ।
प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥

पदपाठः

यः । वा॒म् । ऋ॒जवे॑ । क्रम॑णाय । रो॒द॒सी॒ इति॑ । मर्तः॑ । द॒दाश॑ । धि॒ष॒णे॒ इति॑ । सः । सा॒ध॒ति॒ ।
प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । यु॒वोः । सि॒क्ता । विषु॑ऽरूपाणि । सऽव्र॑ता ॥

सायणभाष्यम्

धिषणे धृष्टे सर्वस्य भुवनस्य निवासभूते वा हे रोदसी वां युवाभ्यां यो मर्तो मर्त्यः ऋजवे क्रमणाय युवयोः सुखगमनाय ददाश हवींषि ददाति स मर्त्यः साधति कामान् साधयति । किं च प्रजाभिः पुत्रपौत्रादिभिः प्रजायते प्रवृद्धो भवति । धर्मणः कर्मणः परिउपरि युवो- र्युवयोः सिक्ता सिक्तानि रेतांसि विषुरूपाणि नानावर्णानि सव्रता समानकर्माणि भुतानि जायन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४