मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७०, ऋक् ५

संहिता

मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते ।
दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥

पदपाठः

मधु॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । मि॒मि॒क्ष॒ता॒म् । म॒धु॒ऽश्चुता॑ । म॒धु॒दुघे॒ इति॑ म॒धु॒ऽदुघे॑ । मधु॑व्रते॒ इति॒ मधु॑ऽव्रते ।
दधा॑ने॒ इति॑ । य॒ज्ञम् । द्रवि॑णम् । च॒ । दे॒वता॑ । महि॑ । श्रवः॑ । वाज॑म् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

मधुश्चुतः उदकस्य क्षारयित्र्यौ मधुदुघे उदकदोग्ध्र्यौ मधुव्रते उअदकार्थकर्माणौ देवता देवताभूते अस्मे अस्मासु यज्ञं द्रविणं धनं च महि महत् श्रवोयशः वाजमन्नं सुवीर्यं सुवीरत्वं च दधाने ददत्यौ द्यावापृथिवी द्यावापृथिव्यौ नोस्मान् मधु मधुना तृतीयैकवचनस्य लुक् मिमि क्षतां सिंचतां ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४