मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७१, ऋक् १

संहिता

उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतु॑ः ।
घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । हि॒र॒ण्यया॑ । बा॒हू इति॑ । अ॒यं॒स्त॒ । सव॑नाय । सु॒ऽक्रतुः॑ ।
घृ॒तेन॑ । पा॒णी इति॑ । अ॒भि । प्रु॒ष्णु॒ते॒ । म॒खः । युवा॑ । सु॒ऽदक्षः॑ । रज॑सः । विऽध॑र्मणि ॥

सायणभाष्यम्

देवो द्योतमानः सुक्रतुः सुकर्मा स्यः सः प्रसिद्धः सविता हिरण्यया हिरण्मयौ आत्मीयौ बाहू सवनाय सुवनाय दानाय वा उदयंस्त उद्यच्छति किंच मखो मंहनीयो युवा नित्यतरुणः सुदक्षः सुप्रज्ञः रजसो लोकस्योदकस्यवा विधर्मणि विधारणे स्थितः घृतेनोदकेन पूर्णौ स्वौ पाणी अभिप्रुष्णुते अभिप्रेरयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५