मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७१, ऋक् २

संहिता

दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ ।
यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥

पदपाठः

दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ ।
यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥

सायणभाष्यम्

तस्य देवस्य सवितुः प्रेरकस्य सवीमनि प्रसवे अनुज्ञाने तथा च यास्कः-सवीमनिप्रसवेइतिश्रेष्ठे । अतिशयेन प्रशस्ते वसुनो धनस्य दावने दाने च वयं स्याम समर्थाभूयास्म यस्त्वं विश्वस्य सर्वस्य द्विपदोनिवेशने स्थितौ प्रसवे च स्वतंत्रोसि यस्तं भूमनो भूरेश्चतुष्पदो- निवेशने प्रसवे च स्वतंत्रोसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५