मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७१, ऋक् ४

संहिता

उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् ।
अयो॑हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मम् ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । दमू॑नाः । हिर॑ण्यऽपाणिः । प्र॒ति॒ऽदो॒षम् । अ॒स्था॒त् ।
अयः॑ऽहनुः । य॒ज॒तः । म॒न्द्रऽजि॑ह्वः । आ । दा॒शुषे॑ । सु॒व॒ति॒ । भूरि॑ । वा॒मम् ॥

सायणभाष्यम्

देवो द्योतमानः दमूनाः दममनाः दानमनावा तथा च यास्कः-दमूनादममनावा दानमनावा दान्तमनावेति । हिरण्यपाणिः हिरण्मय- पाणिः अयोहनुः हिरण्मयहनुः रुक्मं अय इतिहिरण्यनामसु पाठात् यजतो यष्टव्यः मन्द्रजिह्वः मोदमानवाक् स्यः सः सविता प्रतिदोषं प्रतिरात्रं रात्रेरवसाने उदस्थात् उत्तिष्ठतु यो दाशुषे यजमानाय मह्यं भूरि प्रभूतं वामं वननीयं संभजनीयमन्नं वामं वननीयमिति यास्कः । आसुवति प्रेरयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५