मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७१, ऋक् ५

संहिता

उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का ।
दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥

पदपाठः

उत् । ऊं॒ इति॑ । अ॒या॒न् । उ॒प॒व॒क्ताऽइ॑व । बा॒हू इति॑ । हि॒र॒न्यया॑ । स॒वि॒ता । सु॒ऽप्रती॑का ।
दि॒वः । रोहां॑सि । अ॒रु॒ह॒त् । पृ॒थि॒व्याः । अरी॑रमत् । प॒तय॑त् । कत् । चि॒त् । अभ्व॑म् ॥

सायणभाष्यम्

सविता उपवक्तेव अस्माकमधिवक्तेव हिरण्यया हिरण्मयौ सुप्रतीका शोभनावयवौ बाहू उदयान् उद्यच्छतुयोयं पृथिव्याः पृथिवीपर्य- न्तात् दिवोन्तरिक्षस्य रिहांसि उच्छ्रितप्रदेशान् अरुहत् रोहति पतयत् गच्छत् गच्छत् कच्चित् यत्किंचिदभ्वं महत् सर्वं वस्तुजातं तिरोहितं अरीरमत् रमयति च ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५