मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७२, ऋक् ३

संहिता

इन्द्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।
प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥

पदपाठः

इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।
प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥

सायणभाष्यम्

हे इन्द्रासोमौ अहिं जगत् आहन्तारं अपोमेघस्थान्युदकानि परिष्ठां परिवृत्यस्थितं वृत्रं असुरं हथः हतं तदानीं द्यौर्वां युवां अन्वमन्यत् किं च नदीनां अर्णांस्युदकानि प्रैरयतं पुरूणि बहुनि तुवि पुर्विति बहुनामसु पाठात् समुद्राणि उदकस्थानानि आपप्रथुः उदकैरापूरयतं च । अथवा समुन्दन्तीति उदकान्येव समुद्राणि तानि रसेनापूरयतमित्यर्थः तथा च यास्कःसमुद्रः कस्मात्समुद्रवंत्यस्मादापः समभिद्रवं- त्येनमापःसंमोदन्तेस्मिन्भूतानिसमुदकोभवतिसमुनत्तीतिवेति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६