मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७२, ऋक् ४

संहिता

इन्द्रा॑सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।
ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ॥

पदपाठः

इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु ।
ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥

सायणभाष्यम्

इन्द्रासोमा हे इन्द्रासोमौ आमासु अपक्कासु गवां वक्षणासु ऊधःसु अन्तर्मध्ये पक्वं पयो निदधुः । किं च चित्रासु नानावर्णासु आसु जगतीषु गोषु इळा जगतीति गोनामसु पाठात् अन्तर्मध्ये अनपिनद्धं केनाप्यबद्धं रुशत् शुक्लवर्णं पयोजगृभथुः यथा पृथिव्यां स्वयं न क्षरति तथा धारितवन्तावित्यर्थः । इदिति पूरणः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६