मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७३, ऋक् १

संहिता

यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥

पदपाठः

यः । अ॒द्रि॒ऽभित् । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । बृह॒स्पतिः॑ । आ॒ङ्गि॒र॒सः । ह॒विष्मा॑न् ।
द्वि॒बर्ह॑ऽज्मा । प्रा॒घ॒र्म॒ऽसत् । पि॒ता । नः॒ । आ । रोद॑सी॒ इति॑ । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥

सायणभाष्यम्

योबृहस्पतिः अद्रिभित् पणिभिर्विरचितानां शिलोच्चयानां भेत्ता मेघानां विदारको वा अद्रिः ग्रावेति मेघनामसु पाठात् प्रथमजाः प्रजा- पतेर्वीर्यात् प्रथमं जातः ऋतावा सत्यवानुदकवान्वा अंगिरसः पश्चाज्जातः तथा च निगमः-येंगाराआसंस्तेंगिरसोभवन् यदंगाराःपुनरव- शान्ताउददीप्यन्ततद्बृहस्पतिरभवदिति । हविष्मान् यज्ञभागवान् द्विबर्हज्मा द्वयोर्लोकयोर्बृंहितगमनः प्राघर्मसत् प्रकर्षेण दीप्तस्थाने वर्तमानो नोस्माकं पिता पालयिता भवति सबृहस्पतिः वृषभो वर्षकः सन् रोदसी द्यावापृथिव्यौ आरोरवीति अभिगर्जति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७