मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७३, ऋक् २

संहिता

जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ ।
घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥

पदपाठः

जना॑य । चि॒त् । यः । ईव॑ते । ऊं॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ ।
घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । साह॑न् ॥

सायणभाष्यम्

अपि च योबृहस्पतिः देवहूतौ यज्ञे वर्तमानाय ईवते उपगच्छते स्तोत्रे जनाय लोकं स्थानं चकार करोति चिदिति पूरणः सवृत्राण्यावर- काणि तमांसि घ्नन् निवारयन् पृत्सु युद्धेषु शत्रून् जयन् अमित्रान् सहन् अभिभवन् पुरः आसुरीः पुरीः विदर्दरीति भृशं विदारयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७