मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७४, ऋक् १

संहिता

सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवन्तु ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥

पदपाठः

सोमा॑रुद्रा । धा॒रये॑थाम् । अ॒सु॒र्य॑म् । प्र । वा॒म् । इ॒ष्टयः॑ । अर॑म् । अ॒श्नु॒व॒न्तु॒ ।
दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑ना । शम् । नः॒ । भू॒त॒म् । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥

सायणभाष्यम्

सोमारुद्रा हे सोमारुद्रौ असुर्यं असुरसंबन्धिबलं अस्मासु धारयेथां किं च दमेदमे सर्वेष्वस्मद्गृहेषु इष्टयोयज्ञाः वां युवां अरमलं पर्याप्तं प्राश्नुवन्तु प्रकर्षेणव्याप्नुवन्तु । अपि च युवां सप्तरत्ना रत्नानि दधाना धारयन्तौ नोस्मभ्यं शं सुखकरौ सुखरूपौ वा भूतं भवतम् । द्विपदे अस्मदीयाय पुत्रादये चतुष्पदे पश्वादये च शं भूतं भवतं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८