मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७४, ऋक् २

संहिता

सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।
आ॒रे बा॑धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥

पदपाठः

सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय॑म् । आ॒ऽवि॒वेश॑ ।
आ॒रे । बा॒धे॒था॒म् । निःऽऋ॑तिम् । प॒रा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥

सायणभाष्यम्

सोमारुद्रा हे सोमारुद्रौ नोस्माकं गयं गृहं गृहगतंप्राणिजातंवा याअमीवा योरोगआविवेश तांविषूचीं विष्वक् सर्वतो गच्छन्तीं अमीवां विवृहतं वियोजयतम् । अपि च निरृतिमलक्ष्मीं पराचैः पराग्यथाभवति तथा आरे दूरे बाधेथां निवारयतम् । अस्मे अस्माकं भद्रा भद्राणि सौश्रवसानि अन्नानि यशांसि च संतु भवन्तु सुश्रवसौभावः सौश्रवसं श्रवोन्नंयशश्र ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८