मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७४, ऋक् ३

संहिता

सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् ।
अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥

पदपाठः

सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् ।
अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥

सायणभाष्यम्

हे सोमारुद्रा सोमारुद्रौ युवं युवां अस्मे अस्माकं तनूष्वंगेषु एतानि प्रसिद्धानि विश्वा सर्वाणि भेषजानि धत्तं धारयतम् । किं च नोस्माकं तनूष्वंगेषु अस्माभिः कृतं बद्धं च यदेनः पापमस्ति विद्यते तत्पापं अवस्यतं क्षपयतं श्लथयतं शिथिलबन्धं कुरुतमित्यर्थः । अस्मदस्म- त्तोमुंचतंच ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८