मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७४, ऋक् ४

संहिता

ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।
प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥

पदपाठः

ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रा । इ॒ह । सु । मृ॒ळ॒त॒म् । नः॒ ।
प्र । नः॒ । मु॒ञ्च॒त॒म् । वरु॑णस्य । पाशा॑त् । गो॒पा॒यत॑म् । नः॒ । सु॒ऽम॒न॒स्यमा॑ना ॥

सायणभाष्यम्

हेसोमारुद्रौ तिग्मायुधौ दीप्तधनुष्कौ तिग्महेती तीक्ष्णशरौ सुशेवौ शोभनसुखप्रदौ सुमनस्यमाना शोभनंमनः स्तोत्रमिच्छन्तौ सुमनस्य- मानौ स्तूयमानौ सुमनसौ वा सन्तौ युवां इह लोके नोस्मान् सु अत्यन्तं मृळतं सुखयतं नोस्मान्वरुणस्य पाशात् प्रमुंचतं नोस्मान् गोपायतं आपड्भ्योरक्षतं च ॥ ४ ॥

जीमूतस्येत्येकोनविंशर्चंचतुर्दशंसूक्तं भारद्वाजस्यपायोरार्षं अनुक्रम्यतेच-जीमूतस्येवैकोनापायुर्भारद्वाजः संग्रामांगान्यृक् शोभितु- ष्टाववर्मधनुर्ज्यामार्त्नीइषुधिंजगत्यर्धे सारथिमर्धेरश्मीनश्वान्रथं रथगोपान् जगत्यादि लिंगोक्तदेवताद्वाभ्यामिषूः प्रतोदंहस्तघ्नंद्वाभ्या- मिषूः पराः पंक्त्यादयो लिंगोक्तदेवताः संग्रामाशिषोन्त्यानुष्टुप् ऋजीतआलाक्तेतिचद्वेद्वेइति । रथेतिष्ठन् ब्राह्मणासइतिषष्ठीदशम्यौ जगत्यौ अंत्यायोनःस्वोअरणइत्येषानुष्टुप् ऋजीतेआजंघन्तिआलाक्ताअवसृष्टायोनःस्वइतिपंचानुष्टुभः यत्रबाणाइतिपंक्तिः शिष्टास्त्रि- ष्टुभः आद्ययावर्मस्तूयते द्वितीययाधनुः तृतीययाज्या चतुर्थ्याआर्त्नी पंचम्याइषुधिः अतः पंचानांवर्माद्यादेवताः षष्ठ्याः पूर्वार्धेनसारथिः स्तूयते अतः सोर्धर्चस्तद्देवताकः उत्तरार्धेनरश्मयः स्तूयन्ते सप्तम्याअश्वाः अष्टम्यारथः नवम्यारथगोपाः अतस्तास्तद्देवताकाः ब्राह्मणास- इत्यस्यांब्रह्मणपितृसोम्यद्यावापृथिवीपूषाण् ओलिंगोक्तादेवताः एकादशीद्वादश्याविषुस्तुतिरूपत्वात् इषुदेवताके त्रयोदश्याप्रतोदः चतुर्दश्याहस्तघ्नः पंचदशीषोडश्याविषुदेवताके सप्तदश्यायुद्धभूमिब्रह्मणस्पत्यदितिरूपालिंगोक्तदेवताः अष्टादश्याः कवचसोमवरुण- देवताके सप्तदश्यायुद्धभूमिब्रह्मणस्पत्यदितिरूपालिंगोक्तदेवताः अष्टादश्याः कवचसोमवरुणदेवताः अंत्यायादेवाब्रह्मचदेवता युद्धेअने- नसूक्तेनराजानंसंनाहयेत् तथाचाश्वलायनः-संग्रामेसमुपोह्ळेराजानंसंनाहयेदात्वाहार्षमन्तरेधीतिपश्चाद्रथस्यावस्थायजीमूतस्येवभवति- प्रतीकमितिकवचंप्रयच्छेदुत्तरयाधनुरुत्त रांवाचयेत्स्वयंचतुर्थीजपेत्पंचम्येषुधिंप्रयच्छेदभिप्रवर्तमानेष्ठींसप्तम्याश्वानष्टमीमिषूनवेक्षमाणं वाचयत्यहिरिवभोगैः पर्येतिबाहुमितितलं नह्यमानमिति तथाचावसृष्टापरापतेतीषून्विसर्जयेद्यत्रबाणाः संपतन्तीतियुध्यमानेषुजपेत् संशिष्याद्वेति । अध्यायोपाकरणोत्सर्जनयोर्मंडलांत्यहोमे योनः स्वइत्यषा ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८