मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १

संहिता

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥

पदपाठः

जी॒मूत॑स्यऽइव । भ॒व॒ति॒ । प्रती॑कम् । यत् । व॒र्मी । याति॑ । स॒ऽमदा॑म् । उ॒पऽस्थे॑ ।
अना॑विद्धया । त॒न्वा॑ । ज॒य॒ । त्वम् । सः । त्वा॒ । वर्म॑णः । म॒हि॒मा । पि॒प॒र्तु॒ ॥

सायणभाष्यम्

समदां संग्रामाणां उपस्थे उपस्थाने सति यद्यदायं राजा वर्मी कवची याति तदा लोहमयेन वर्मणा सन्नद्धस्य राज्ञः प्रतीकं रूपं जीमूत- स्येव मेघस्येव भवति मेघस्य यादृशं रूपं तादृशमस्य भवतीत्यर्थः हे राजन् त्वं अनाविद्धया शत्रुभिरबाधितया तन्वा शरीरेण शत्रून् जयवर्मणः सतादृशो महिमा त्वा त्वां पिपर्तु पालयतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९