मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् २

संहिता

धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।
धनु॒ः शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वा॑ः प्र॒दिशो॑ जयेम ॥

पदपाठः

धन्व॑ना । गाः । धन्व॑ना । आ॒जिम् । ज॒ये॒म॒ । धन्व॑ना । ती॒व्राः । स॒ऽमदः॑ । ज॒ये॒म॒ ।
धनुः॑ । शत्रोः॑ । अ॒प॒ऽका॒मम् । कृ॒णो॒ति॒ । धन्व॑ना । सर्वाः॑ । प्र॒ऽदिशः॑ । ज॒ये॒म॒ ॥

सायणभाष्यम्

धन्वना चापेन गाः शत्रूणां जयेम वयं वशीकरवाम धन्वना आजिं संग्रामं च जयेम धन्वना तीव्राः उद्धताः समदः अत्यन्तमदवतीः शत्रुसेनाश्च जयेम तथाचयास्कः-समदः समदोवात्तेः संमदोवामदतेरिति । धनुः शत्रोरपकामं कामस्यापायं कृणोति करोतु । किं च धन्वना वयं सर्वाः प्रदिशः सर्वासु दिक्षु वर्तमानान् शत्रून् जयम प्रदिक् शब्दो लक्षणया तत्स्थेषु पुरुषेषु वर्तते मंचाः क्रोशंतीतिवत् । धन्वन् शब्दस्य जयतेश्चावृत्तिरादरार्था ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९