मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ३

संहिता

व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना ।
योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती ॥

पदपाठः

व॒क्ष्यन्ती॑ऽइव । इत् । आ । ग॒नी॒ग॒न्ति॒ । कर्ण॑म् । प्रि॒यम् । सखा॑यम् । प॒रि॒ऽस॒स्व॒जा॒ना ।
योषा॑ऽइव । शि॒ङ्क्ते॒ । विऽत॑ता । अधि॑ । धन्व॑न् । ज्या । इ॒यम् । सम॑ने । पा॒रय॑न्ती ॥

सायणभाष्यम्

पूर्वत्र ऋग्द्वयेन कवचधनुषी स्तुते अत्र ज्यास्तुतिः इयं ज्या समने संग्रामे धन्वन् धन्वनि अधीति सप्तम्यर्थानुवादः । वितता विस्तृता पारयन्ती पारं नयन्ती प्रियं प्रियकरं वाक्यं वक्ष्यन्ती इव कर्णं धन्विनो राज्ञः कर्णप्रदेशं आगनीगन्ति आगच्छति । इदिति पूरणः योषा नारी सखायं पतिमिव परिषस्वजाना इषुं परिष्वजमाना शिंक्ते शब्दायते च । तथाच यास्कः-वक्ष्यन्तीवागच्छति कर्णंप्रियमिव सखाय- मिषुं परिष्वजमाना योषेव शिंक्ते शब्दंकरोति वितताधिधनुषिज्येयंसमने संग्रामे पारयन्ती पारं नयन्तीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९