मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ४

संहिता

ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।
अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥

पदपाठः

ते इति॑ । आ॒चर॑न्ती॒ इत्या॒ऽचर॑न्ती । सम॑नाऽइव । योषा॑ । मा॒ताऽइ॑व । पु॒त्रम् । बि॒भृ॒ता॒म् । उ॒पऽस्थे॑ ।
अप॑ । शत्रू॑न् । वि॒ध्य॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । आ॒र्त्नी इति॑ । इ॒मे इति॑ । वि॒स्फु॒रन्ती॒ इति॑ वि॒ऽस्फु॒रन्ती॑ । अ॒मित्रा॑न् ॥

सायणभाष्यम्

अत्र धनुःकोट्योः स्तुतिः ते धनुः कोट्यौ समनेव समनस्केव योषा पतिसमीपं न त्यजति त्रद्वदाचरन्ती अभितश्चरंत्यौ उपस्थे उपस्थाने मातेव पुत्रं यथा माता पुत्रं धारयति तद्वत् बिभृतां राजानं धारयेताम् । किं च इमे धनुःकोट्यौ संविदाने संजानाने विसंवादरहिते आर्त्नी गच्छन्त्यौ ऋगताविति धातोः चर्यगिभ्यां निरिति बाहुलकात् निप्रत्ययोधातोरार्तभावश्च ततः कृदिकारादक्तिनइतिङीष् द्विवचनस्य पूर्वसवर्णः अस्य राज्ञः अमित्रान् विष्फुरन्ती विहिंसंत्यौ शत्रूंश्च अपविध्यताम् । तथाच यास्कः-तेआचारन्ती समनसाविवयोषे मातेवपुत्रं बिभृतामुपस्थउपस्थाने पविध्यतां शत्रून् संविदाने आर्त्न्याविमे विघ्नवत्यावमित्रानिति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९