मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ५

संहिता

ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
इ॒षु॒धिः सङ्का॒ः पृत॑नाश्च॒ सर्वा॑ः पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥

पदपाठः

ब॒ह्वी॒नाम् । पि॒ता । ब॒हुः । अ॒स्य । पु॒त्रः । चि॒श्चा । कृ॒णो॒ति॒ । सम॑ना । अ॒व॒ऽगत्य॑ ।
इ॒षु॒ऽधिः । सङ्काः॑ । पृत॑नाः । च॒ । सर्वाः॑ । पृ॒ष्ठे । निऽन॑द्धः । ज॒य॒ति॒ । प्रऽसू॑तः ॥

सायणभाष्यम्

इषुधिरत्र स्तूयते इषुधिः बह्वीनामिषूणांपिता भवति रक्षणहेतुत्वात् पितेत्युच्यते इषुशब्दस्योभयलिंगत्वात् बह्वीनामिति प्रयोगः अस्य इषुधेः पुत्रः इषुर्बहुर्भवति बहवः इषवो हि इषुधौ निधीयन्ते इषूणां निधानत्वादिषुधिः तथाच यास्कः-इषुधिरिषूणां निधान- मिति । चिश्चाकृणोति चिश्चेति शब्दानुकृतिः इषुषूद्रियमाणेषु इषुधिश्चिश्चाशब्दं करोति । किं च इषुधिः पृष्ठे निनद्धः धन्विनो राज्ञः पृष्ठभागे बद्धः समना युद्धानि अवगत्य प्राप्य प्रसूतः प्रसुवन् कर्तरिनिष्ठा इषून्प्रेरयन् संकाः सहकायन्ति शब्दायन्ति शब्दायन्ते इति संकाः पृतनाः सर्वाः सेनाः जयति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९