मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ६

संहिता

रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।
अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥

पदपाठः

रथे॑ । तिष्ठ॑न् । न॒य॒ति॒ । वा॒जिनः॑ । पु॒रः । यत्र॑ऽयत्र । का॒मय॑ते । सु॒ऽसा॒र॒थिः ।
अ॒भीशू॑नाम् । म॒हि॒मान॑म् । प॒ना॒य॒त॒ । मनः॑ । प॒श्चात् । अनु॑ । य॒च्छ॒न्ति॒ । र॒श्मयः॑ ॥

सायणभाष्यम्

अत्र पूर्वार्धे सारथिस्तुतिः उत्तरार्धेभीशूनां स्तुतिः सुषारथिः शोभनसारथिः रथे तिष्ठन् पुरः पुरस्तात् वर्तमानान् वाजिनोश्वान् यत्र यत्र नेतुं कामयते तत्र तत्र नयति ये रथे रश्मयोश्वग्रीवाभ्यां व्याप्य वर्तमानाः पाशाः पश्चात् रथस्य रथस्य पृष्ठभागे विद्यमानानश्वान् मनः सारथेर्मनोनुकूलं अनुयच्छन्ति नियच्छन्ति तेषामभीशूनां रश्मीनां महिमानं महत्त्वं पनायत हे जनाः स्तुत तथाच यास्कः-रथेति- ष्ठन्नयतिवाजिनःपुरस्तात्सतोयत्रयत्रकामयतेसुषारथिः कल्याणसारथिरभीशूनांमहिमानंपूजयतमनः पश्चात्सतोनुपयच्छंतिरश्मयइति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०