मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ७

संहिता

ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।
अ॒व॒क्राम॑न्त॒ः प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥

पदपाठः

ती॒व्रान् । घोषा॑न् । कृ॒ण्व॒ते॒ । वृष॑ऽपाणयः । अश्वाः॑ । रथे॑भिः । स॒ह । वा॒जय॑न्तः ।
अ॒व॒ऽक्राम॑न्तः । प्रऽप॑दैः । अ॒मित्रा॑न् । क्षि॒णन्ति॑ । शत्रू॑न् । अन॑पऽव्ययन्तः ॥

सायणभाष्यम्

अत्राश्वस्तुतिः अश्वाः वृषपाणयः पांसूनां वर्षकखुराः रथेभिः रथैः सह वाजयन्तो वेगमाचरन्तः तीव्रान् उच्चतरान् घोषान् शब्दान् कुर्वते- कृण्वते किं च । अनपव्ययन्तोऽपलायमानाः अमित्रान् हिंसकान् शत्रून् प्रपदैः पादाग्रैः अवक्रामन्तः क्षिणंति हिंसन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०