मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ८

संहिता

र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।
तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥

पदपाठः

र॒थ॒ऽवाह॑नम् । ह॒विः । अ॒स्य॒ । नाम॑ । यत्र॑ । आयु॑धम् । निऽहि॑तम् । अ॒स्य॒ । वर्म॑ ।
तत्र॑ । रथ॑म् । उप॑ । श॒ग्मम् । स॒दे॒म॒ । वि॒श्वाहा॑ । व॒यम् । सु॒ऽम॒न॒स्यमा॑नाः ॥

सायणभाष्यम्

अस्य राज्ञः रथवाहनं शत्रून् जित्वा रथेनोह्यमानं धनं हविर्भवति अग्नेर्हविरिववर्धकं भवतीत्यर्थः । नामेति संमतिः यत्र रथे अस्य राज्ञः आयुधं धनुः शरादिकं वर्म कवचं च निहितं भवति तत्रेत्यव्ययस्य सार्वविभक्तित्वात् शग्मं सुखकरं विश्वाहा सर्वदा सुमनस्यमानाः सुख- मनसो भवन्तो वयं पायवो भरद्वाजाः उपसदेम उपगच्छेम ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०