मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ९

संहिता

स्वा॒दु॒षं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रित॒ः शक्ती॑वन्तो गभी॒राः ।
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥

पदपाठः

स्वा॒दु॒ऽसं॒सदः॑ । पि॒तरः॑ । व॒यः॒ऽधाः । कृ॒च्छ्रे॒ऽश्रितः॑ । शक्ति॑ऽवन्तः । ग॒भी॒राः ।
चि॒त्रऽसे॑नाः । इषु॑ऽबलाः । अमृ॑ध्राः । स॒तःऽवी॑राः । उ॒रवः॑ । व्रा॒त॒ऽस॒हाः ॥

सायणभाष्यम्

अत्र रथगोपस्तुतिः पितरो रथस्य पालयितारः स्वादुषं सदः शत्रूणां स्वादुन्यन्ने संसीदन्तः शत्रूणामन्नमवसादयन्तो वा वयोधाः अन्नस्य दातारः कृच्छ्रे श्रितः आपदि श्रयन्तः शक्तिरायुधविशेषः तद्वन्तः शक्तीवन्तः शक्तिहस्ताइति यावत् । यद्वा शक्तिर्बलं तद्वन्तः गभीराः अनाधृष्याः चित्रसेनाः दर्शनीयसेनाः इषुबलाः बाणबलाः अमृध्राः हिंसितुमशक्याः सतोवीराः प्राप्तवीर्याः । तथाचयास्कः-तिरः सतइति प्राप्तस्य तिरः स्तीर्णंभवति सतः संसृतंभवतीति । उरवोमहान्तः व्रातसहाः समूहानामभिभवितारोभवन्तीति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०