मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् ११

संहिता

सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒ः संन॑द्धा पतति॒ प्रसू॑ता ।
यत्रा॒ नर॒ः सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒ः शर्म॑ यंसन् ॥

पदपाठः

सु॒ऽप॒र्णम् । व॒स्ते॒ । मृ॒गः । अ॒स्याः॒ । दन्तः॑ । गोभिः॑ । सम्ऽन॑द्धा । प॒त॒ति॒ । प्रऽसू॑ता ।
यत्र॑ । नरः॑ । सम् । च॒ । वि । च॒ । द्रव॑न्ति । तत्र॑ । अ॒स्मभ्य॑म् । इष॑वः । शर्म॑ । यं॒स॒न् ॥

सायणभाष्यम्

अस्यामृचीषवः स्तूयन्ते सुपर्णं शोभनं वाजं वस्ते इयमिषुर्धारयति अस्याइषोः मृगोमृगावयवः शृंगं दन्तोभवति इषवः काश्चिद्दन्तमुखा- भवन्ति हि अथवा अस्या दन्तः मृगः शत्रून् मृगयमाणोभवति किं च गोभिः गोविकारैः स्नायुभिः सन्नद्धा सम्यक् बद्धा अथवा गौरिति ज्यानाम तया संबद्धा अत्रवचनव्यत्ययः तथाचनिगमः-वृक्षेवृक्षेनियतामीमयद्गौरिति । अस्यायमर्थः वृक्षेवृक्षे धनुषि धनुषि गौर्ज्यानिय- ता मीमयत् शब्दं करोतीति तथा च यास्कः-वृक्षे वृक्षे धनुषि धनुषि वृक्षोव्रश्चनात् वृत्वा क्षां तिष्ठतीतिवा क्षाक्षियतेर्निवासकर्मणो- नियतामीमयद्गौः शब्दंकरोति मीमयतिः शब्दकर्मेति । प्रसूता प्रेरिता सती पतति यत्र युद्धे नरः संच सहच विच पृथक् च द्रवन्तिचरन्ति तत्रास्मभ्यं इषवः शराः शर्म सुखं यंसन् प्रयच्छन्तु तथा च यास्कः-सुपर्णं वस्त इति वाजानभिप्रेत्य मृगमयोस्यादन्तोमृगयतेर्वागोभिः सन्नद्धापतति प्रसूतेति व्याख्यातं यत्र नराः संद्रवन्तिच तत्रास्मभ्यमिषवः शर्मशरणं प्रयच्छन्त्विति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१