मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १२

संहिता

ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः ।
सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒ः शर्म॑ यच्छतु ॥

पदपाठः

ऋजी॑ते । परि॑ । वृ॒ङ्धि॒ । नः॒ । अश्मा॑ । भ॒व॒तु॒ । नः॒ । त॒नूः ।
सोमः॑ । अधि॑ । ब्र॒वी॒तु॒ । नः॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ॥

सायणभाष्यम्

ऋजीते ऋजुगच्छतीत्यृजीतिरिषुः हेइषो नोस्मान् परिवृङ् ग्धि परितो वर्धय नोस्माकं तनूः शरीरं अश्मा भवतु अश्मवदभेद्या दृढा भवतु किंच नोस्मभ्य सोमोधिव्रवीतु पक्षपातेन ब्रवीतु अदितिरपि शर्म सुखं यच्छतु ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१