मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १३

संहिता

आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते ।
अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥

पदपाठः

आ । ज॒ङ्घ॒न्ति॒ । सानु॑ । ए॒षा॒म् । ज॒घना॑न् । उप॑ । जि॒घ्न॒ते॒ ।
अश्व॑ऽअजनि । प्रऽचे॑तसः । अश्वा॑न् । स॒मत्ऽसु॑ । चो॒द॒य॒ ॥

सायणभाष्यम्

अश्वाजनि अश्वानां क्षेप्त्रि कशे यया त्वया प्रचेतसः प्रकृष्टज्ञानाः सादिनः सारथयोवा एषामश्वानां सानु सानूनि सक्थीनि आजंघंति आघ्नंति जघनान् जघनानि उपजिघ्नंति सा त्वं समत्सु संग्रामेषु अश्वान् चोदय प्रेरय । तथाच यास्कः-आघ्नंति सानून्येषां सरणानि सक्थीनि सक्थिसचतेरासक्तोस्मिन् कायोजघनानि चोपघ्नंति जघनंजघन्यतेरश्वाजनिप्रचेतसः प्रवृद्धचेतसोश्वान् समत्सु समरणेषु संग्रामेषु चोदयेति ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१