मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १५

संहिता

आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख॑म् ।
इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नमः॑ ॥

पदपाठः

आल॑ऽअक्ता । या । रुरु॑ऽशीर्ष्णी । अथो॒ इति॑ । यस्याः॑ । अयः॑ । मुख॑म् ।
इ॒दम् । प॒र्जन्य॑ऽरेतसे । इष्वै॑ । दे॒व्यै । बृ॒हत् । नमः॑ ॥

सायणभाष्यम्

या इषुः आलाक्ता आलेन विषेणाक्ता रुरुशीर्ष्णी हन्तृशिरस्का अर्तेर्हिसाकर्मणोरुरुशब्दो त्पत्तिः शृंगशीर्ष्णी वा अथो किंच यस्याः इषोर्मुखं अयः अयोमयं भवति पर्जन्यरेतसे पर्जन्यः रेतोयस्याः सापर्जन्यरेताः तस्यै पर्जन्यकार्यभूतायै शरकांडस्य पर्जन्यजन्यत्वात् बृहत् बृहत्यै तस्मै इष्वै देव्यै इदं नमः क्रियतइति ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१