मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १७

संहिता

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒ः शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥

पदपाठः

यत्र॑ । बा॒णाः । स॒म्ऽपत॑न्ति । कु॒मा॒राः । वि॒शि॒खाःऽइ॑व ।
तत्र॑ । नः॒ । ब्रह्म॑णः । पतिः॑ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । वि॒श्वाहा॑ । शर्म॑ । य॒च्छ॒तु॒ ॥

सायणभाष्यम्

यत्र युद्धे कुमाराः विशिखाइव मुंडिताइव बाणाः संपतंति तत्र नोस्मभ्यं ब्रह्मणस्पतिः शर्म सुखं विश्वाहा सर्वदा यच्छतु अदितिश्च शर्म यच्छतु द्विरुक्तिरादरार्था ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२