मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १८

संहिता

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् ।
उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥

पदपाठः

मर्मा॑णि । ते॒ । वर्म॑णा । छा॒द॒या॒मि॒ । सोमः॑ । त्वा॒ । राजा॑ । अ॒मृते॑न । अनु॑ । व॒स्ता॒म् ।
उ॒रोः । वरी॑यः । वरु॑णः । ते॒ । कृ॒णो॒तु॒ । जय॑न्तम् । त्वा॒ । अनु॑ । दे॒वाः । म॒द॒न्तु॒ ॥

सायणभाष्यम्

हे राजन् ते त्वदीयानिमर्माणि येषु स्थानेषु विद्धः सद्योम्रियते तानि मर्माणि वर्मणा कवचेन छादयामि सोमोराजा त्वा त्वां अनु मर्म- च्छादनानंतरममृतेन वस्तां आच्छादयतु । किंच वरुणोपि ते तुभ्यं उरोर्वरीयः उरुतरं सुखं कृणोतु करोतु । जयंतं त्वा त्वां देवाः सर्वेपि अनुमदन्तु अनुहृष्यन्तु ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२