मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् २

संहिता

तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्त्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् ।
द॒क्षाय्यो॒ यो दम॒ आस॒ नित्य॑ः ॥

पदपाठः

तम् । अ॒ग्निम् । अस्ते॑ । वस॑वः । नि । ऋ॒ण्व॒न् । सु॒ऽप्र॒ति॒चक्ष॑म् । अव॑से । कुतः॑ । चि॒त् ।
द॒क्षाय्यः॑ । यः । दमे॑ । आस॑ । नित्यः॑ ॥

सायणभाष्यम्

योग्निः दमे गृहे दक्षाय्यः पूजनीयो हविर्भिः समर्धनीयोवा नित्यो जस्रः आस बभूवतं सुप्रतिचक्षं सुप्रतिदर्शनमग्निं कुतश्चित् सर्वस्मादपि भयहेतोः अवसे रक्षणाय वसवो वासकाः ये वसिष्ठा अस्ते गृहे न्यृण्वन् न्यदधुः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३