मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ५

संहिता

दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तम् ।
न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥

पदपाठः

दाः । नः॒ । अ॒ग्ने॒ । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । सु॒ऽअ॒प॒त्यम् । स॒ह॒स्य॒ । प्र॒ऽश॒स्तम् ।
न । यम् । यावा॑ । तर॑ति । या॒तु॒ऽमावा॑न् ॥

सायणभाष्यम्

सहस्य अभिभवकुशल हे अग्ने सुवीरं शोभनपुत्रपौत्रोपेतं स्वपत्यं शोभनपौत्रोपेतं प्रशस्तं श्रेष्ठं रयिं धनं धिया स्तोत्रेण नोस्मभ्यं दाः देहि यं रयिं यावा अभिगन्ता शत्रुः यातुमावान् हिंसायानिर्गतः नलोपाभावश्छांदसः यद्वा हिंसायुक्तः परोवतिर्मत्वर्थीयः पूरकः न तरति नबाधते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३