मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ७

संहिता

विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थम् ।
प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वाम् ॥

पदपाठः

विश्वाः॑ । अ॒ग्ने॒ । अप॑ । द॒ह॒ । अरा॑तीः । येभिः॑ । तपः॑ऽभिः । अद॑हः । जरू॑थम् ।
प्र । नि॒ऽस्व॒रम् । चा॒त॒य॒स्व॒ । अमी॑वाम् ॥

सायणभाष्यम्

हे अग्ने विश्वा विश्वान् अरातीः शत्रून् तपोभिस्तेजोभिः अपदह येभिः यैस्तपोभिः जरूथं परुषशब्दकारिणं राक्षसं गृणातेरूथन्प्रत्ययेसति जरूथशब्दनिष्पत्तिः अदहो दहसि । किं च अमीवां रोगं निस्वरं न्यक्कृतोपतापं यथाभवति तथा स्वृशब्दोपतापयोरितिधातुः प्रचातय- स्व प्रकर्षेण नाशय चततिर्गत्यर्थोवेति भदृभास्करमिश्रः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४