मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ८

संहिता

आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑व॒ः पाव॑क ।
उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्या॑ः ॥

पदपाठः

आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् । वसि॑ष्ठ । शुक्र॑ । दीदि॑ऽवः । पाव॑क ।
उ॒तो इति॑ । नः॒ । ए॒भिः । स्त॒वथैः॑ । इ॒ह । स्याः॒ ॥

सायणभाष्यम्

वसिष्ठ श्रेष्ठ शुक्र शुभ्र दीदिवः दीप्त पावक शोधक हे अग्ने ते तव अनीकं तेजः यः आ इधते समेधयति तस्येव नोस्माकं उतो अपि च येभिः स्तवथैः स्तोत्रैः इहास्मिन्यज्ञे स्याः भव ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४