मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ९

संहिता

वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नर॒ः पित्र्या॑सः पुरु॒त्रा ।
उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्या॑ः ॥

पदपाठः

वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी॑कम् । मर्ताः॑ । नरः॑ । पित्र्या॑सः । पु॒रु॒ऽत्रा ।
उ॒तो इति॑ । नः॒ । ए॒भिः । सु॒ऽमनाः॑ । इ॒ह । स्याः॒ ॥

सायणभाष्यम्

हे अग्ने ते तव अनीकं तेजः पित्र्यासः पितृहिताः आर्षेयावा मर्ता मनुष्याः नरः कर्मणां नेतारो ये यजमानाः पुरुत्रा बहुषु देशेषु विभेजिरे विभजन्त आदधुरितियावत् तेषामिव नोस्माकं उतो अपि एभिः स्तुतैः सह स्तोत्रैर्वा सुमना अनुग्राहकमनाः सन् इह यज्ञे स्याः भव ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४