मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १०

संहिता

इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि स॑न्तु मा॒याः ।
ये मे॒ धियं॑ प॒नय॑न्त प्रश॒स्ताम् ॥

पदपाठः

इ॒मे । नरः॑ । वृ॒त्र॒ऽहत्ये॑षु । शूराः॑ । विश्वाः॑ । अदे॑वीः । अ॒भि । स॒न्तु॒ । मा॒याः ।
ये । मे॒ । धिय॑म् । प॒नय॑न्त । प्र॒ऽश॒स्ताम् ॥

सायणभाष्यम्

ये मनुष्याः मे मदीयां प्रशस्तां प्रकृष्टां धियं कर्म स्तुतिं वा पनयन्त स्तुवन्ति ब्रुवन्ति वा तइमे मयि स्निग्धा नरो मनुष्या वृत्रहत्येषु संग्रामेषु शूराः अदेवीरासुरीः विश्वाः सर्वाः मायाः अभिसन्तु अभिभवन्तु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४