मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् ११

संहिता

मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा ।
प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥

पदपाठः

मा । शूने॑ । अ॒ग्ने॒ । नि । स॒दा॒म॒ । नृ॒णाम् । मा । अ॒शेष॑सः । अ॒वीर॑ता । परि॑ । त्वा॒ ।
प्र॒जाऽव॑तीषु । दुर्या॑सु । दु॒र्य॒ ॥

सायणभाष्यम्

हे अग्ने शूने शून्ये पुत्रादिरहिते गृहे मानिषदाम न निवसाम नृणामन्येषां च गृहे मानिषदाम दुर्य गृहेभ्योहित हे अग्ने अशेषसः अपुत्राः तोक्म शेष इति पुत्रनामसु पाठात् अवीरता अवीरतया युक्ताश्च सन्तः त्वा त्वां परिचरन्तः प्रजावतीष्वेव दुर्यासु गृहेषु निवसाम ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५