मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १२

संहिता

यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षयं॑ नः ।
स्वज॑न्मना॒ शेष॑सा वावृधा॒नम् ॥

पदपाठः

यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाऽव॑न्तम् । सु॒ऽअ॒प॒त्यम् । क्षय॑म् । नः॒ ।
स्वऽज॑न्मना । शेष॑सा । व॒वृ॒धा॒नम् ॥

सायणभाष्यम्

यं यज्ञं यज्ञाश्रयं अश्वी अश्ववानग्निः नित्यमुपयाति तं प्रजावन्तं भृत्यादिसहितं स्वपत्यं शोभनसंतानोपेतं स्वजन्मना औरसेन शेषसा पुत्रेण ववृधानं वर्धमानं क्षयं गृहं नोस्मभ्यं हे अग्ने देहीति शेषः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५