मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १४

संहिता

सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः ।
स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥

पदपाठः

सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति॑ । अ॒स्तु॒ । अ॒न्यान् । यत्र॑ । वा॒जी । तन॑यः । वी॒ळुऽपा॑णिः ।
स॒हस्र॑ऽपाथाः । अ॒क्षरा॑ । स॒म्ऽएति॑ ॥

सायणभाष्यम्

सइत् सएवाग्निः आहवनीयादिरस्मदीयः अन्यानितरानन्यदीयानग्नीन् अत्यस्तु अतिभवतु यत्र यस्मिन्नग्नौ वाजी अशनवान् बलवान् वा वीळुपाणिः दृढहस्तः वीळु च्यौत्नमिति बलनामसु पाठात् सहस्रपाथाः बह्वन्नः बहुस्थानोवा बहूदकोवा तनयोस्मत्पुत्रः अक्षरा अक्षरेण क्षयरहितेन स्तोत्रेण समेति सम्यक् परिचरन्नेति समर्थपुत्रवतएवाग्निरन्यदीयानग्नीनभिभवतीति भावः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५