मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १५

संहिता

सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् ।
सु॒जा॒तास॒ः परि॑ चरन्ति वी॒राः ॥

पदपाठः

सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒ऽपाति॑ । स॒म्ऽए॒द्धार॑म् । अंह॑सः । उ॒रु॒ष्यात् ।
सु॒ऽजा॒तासः॑ । परि॑ । च॒र॒न्ति॒ । वी॒राः ॥

सायणभाष्यम्

यः समेद्धारं प्रबोधकं बनुष्यतो हिंसकान् वनुष्यतिर्हंतिकर्मेतियास्कः । उरुष्यात् अधिकादंहसः पापाच्च निपाति अत्यन्तं रक्षति यं च सुजातासः सुजन्मानएव वीराः स्तोतारः सुतावा परिचरन्ति सइत् सएवाग्निः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५