मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १७

संहिता

त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ ।
उ॒भा कृ॒ण्वन्तो॑ वह॒तू मि॒येधे॑ ॥

पदपाठः

त्वे इति॑ । अ॒ग्ने॒ । आ॒ऽहव॑नानि । भूरि॑ । ई॒शा॒नासः॑ । आ । जु॒हु॒या॒म॒ । नित्या॑ ।
उ॒भा । कृ॒ण्वन्तः॑ । व॒ह॒तू इति॑ । मि॒येधे॑ ॥

सायणभाष्यम्

हे अग्ने त्वे त्वयि ईशानासः धनानामीश्वराः सन्तः नित्या नित्यान्यग्निहोत्रादीनि उभाउभौ वहत् वहनहेतू स्तोत्रं शस्त्रं च कृण्वन्तः कुर्वन्तः मियेधे यज्ञे भूरि बहूनि आहवनानि हवींषि आजुहुयाम आजुहवाम ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६