मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १८

संहिता

इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ ।
प्रति॑ न ईं सुर॒भीणि॑ व्यन्तु ॥

पदपाठः

इ॒मो इति॑ । अ॒ग्ने॒ । वी॒तऽत॑मानि । ह॒व्या । अज॑स्रः । व॒क्षि॒ । दे॒वऽता॑तिम् । अच्छ॑ ।
प्रति॑ । नः॒ । ई॒म् । सु॒र॒भीणि॑ । व्य॒न्तु॒ ॥

सायणभाष्यम्

हे अग्ने त्वं अजस्रः अनवरतःसन् इमो इमानि वीततमानि अतिशयेन कान्तानि हव्या हव्यानि देवतातिं देवानां समूहं अभिवक्षि वह अच्छ गच्छ च नोस्मदीयानि सुरभीणि शोभनानि ईं एतानि हव्यानि देवाः प्रतिव्यन्तु प्रत्येकं कामयन्तां ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६