मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् १९

संहिता

मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै ।
मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥

पदपाठः

मा । नः॒ । अ॒ग्ने॒ । अ॒वीर॑ते । परा॑ । दाः॒ । दुः॒ऽवास॑से । अम॑तये । मा । नः॒ । अ॒स्यै ।
मा । नः॒ । क्षु॒धे । मा । र॒क्षसे॑ । ऋ॒त॒ऽवः॒ । मा । नः॒ । दमे॑ । मा । वने॑ । आ । जु॒हू॒र्थाः॒ ॥

सायणभाष्यम्

हे अग्ने नोस्मान् अवीरते अपुत्रतायै मापरादाः मादेहि दुर्वाससे दुष्टवस्त्रायच नोमापरादाः अस्यै अमतये अभिहान्यै नोस्मान् मापरादाः क्षुधे अशनायायै नोस्मान् माच परादाः रक्षसे बलिने चास्मान् मापरादाः हेऋतावः सत्यवन्नग्ने नोस्मान् दमे गृहे माजुहूर्थाः माहिंसीः हुर्छाकौटिल्येइति धातुः वनेचास्मान् माजुहूर्थाः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६