मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् २१

संहिता

त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि ।
मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ । र॒ण्वऽस॑न्दृक् । सु॒ऽदी॒ती । सू॒नो॒ इति॑ । स॒ह॒सः॒ । दि॒दी॒हि॒ ।
मा । त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः॑ । वि । दा॒सी॒त् ॥

सायणभाष्यम्

सहसःसूनो सहसःसुत हे अग्ने सुहवः स्वाह्वानः रण्वसंदृक् रमणीयसंदर्शनस्त्वं सुदीती शोभनया दीप्त्या दिदीहि दीप्यस्व । किं च तनये नित्ये औरसे पुत्रे त्वे त्वं सचा सहायभूतः मा आधक् मा अभिधाक्षीः । अपि च अस्मत् पृथग्भूतः अस्माकं वा षष्ठ्यर्थे पंचमी वीरः पुत्रः नर्यो नरहितः माविदासीत् मोपक्षीयत ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७