मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् २२

संहिता

मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः ।
मा ते॑ अ॒स्मान्दु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ॥

पदपाठः

मा । नः॒ । अ॒ग्ने॒ । दुः॒ऽभृ॒तये॑ । सचा॑ । ए॒षु । दे॒वऽइ॑द्धेषु । अ॒ग्निषु॑ । प्र । वो॒चः॒ ।
मा । ते॒ । अ॒स्मान् । दुः॒ऽम॒तयः॑ । भृ॒मात् । चि॒त् । दे॒वस्य॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥

सायणभाष्यम्

हे अग्ने सचा सहायभूतस्त्वं देवेद्धेषु ऋत्विग्भिः समिद्धेषु एष्वग्निषु दुर्भृतये कृच्छ्र्भरणाय नोस्मान् मा प्रवोचः न ब्रूहि त्वत्सहाय भूता- अग्नयः यथा माम कृच्छ्रेगबिभृयुः तथा ब्रूहीत्यर्थः किं च सहसः सूनो हे बलस्य पुत्राग्ने देवस्य द्योतमानस्य ते तव दुर्मतयो निग्नहबुद्धयः भृमाच्चित् भ्रमादपि अत्र संप्रसारणं छान्दसं प्रमादादपीत्यर्थः । अस्मान्मानशंत माव्याप्नुवंतु नशदितिव्याप्तिकर्मसु पाठात् ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७