मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् २३

संहिता

स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यम् ।
स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥

पदपाठः

सः । मर्तः॑ । अ॒ग्ने॒ । सु॒ऽअ॒नी॒क॒ । रे॒वान् । अम॑र्त्ये । यः । आ॒ऽजु॒होति॑ । ह॒व्यम् ।
सः । दे॒वता॑ । व॒सु॒ऽवनि॑म् । द॒धा॒ति॒ । यम् । सू॒रिः । अ॒र्थी । पृ॒च्छमा॑नः । एति॑ ॥

सायणभाष्यम्

स्वनीक सुतेजस्क हे अग्ने अमर्त्ये अमनुष्ये देवतात्मनि त्वयि हव्यं हविः यआजुहोति समर्तो मनुष्यो रेवान् धनवान् भवति यं मर्त्यं सूरिः प्राज्ञः अर्थी धनादिकामः पृच्छमानः असावुदारः क्वास्तइतिपृच्छन् एति अभिगच्छति स एव मनुष्यः देवता देवताभ्यो वसुवनिं धन- पोषं दधाति धारयति यद्वा सदेवताग्निः वसुवनिं यजमानं दधाति धारयति यमग्निं सूरिः स्तोता अर्थी प्रयोजनवान् पृच्छमानः कोसाव- ग्निरिति पृच्छमानएति ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७