मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १, ऋक् २४

संहिता

म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म् ।
येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीरा॑ः ॥

पदपाठः

म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य॑ । वि॒द्वान् । र॒यिम् । सू॒रिऽभ्यः॑ । आ । व॒ह॒ । बृ॒हन्त॑म् ।
येन॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । मदे॑म । अवि॑ऽक्षितासः । आयु॑षा । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हे अग्ने नोस्मदीयस्य महो महतः सुवितस्य कल्याणस्य कर्मणो विद्वान् अस्मदीयं कल्याणं कर्म जानन्नित्यर्थः । त्वं सूरिभ्यः स्तोतृ- भ्योस्मभ्यं बृहन्तं महान्तं रयिं धनं आवह रयिमेव विशिनष्टि हे सहसावन् बलवन्नग्ने येन धनेन वयं स्तोतारः अविक्षितासः अवि- क्षीणाः आयुषा पूर्णायुषः सुवीराः कल्याणपुत्रपौत्राश्च सन्तो मदेम हृष्येम ॥ २४ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । प्कुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येण विरचितेमाधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पंचमाष्टके प्रथमोध्यायः समाप्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७