मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् २

संहिता

नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः ।
ये सु॒क्रत॑व॒ः शुच॑यो धियं॒धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥

पदपाठः

नरा॒शंस॑स्य । म॒हि॒मान॑म् । ए॒षा॒म् । उप॑ । स्तो॒षा॒म॒ । य॒ज॒तस्य॑ । य॒ज्ञैः ।
ये । सु॒ऽक्रत॑वः । शुच॑यः । धि॒य॒म्ऽधाः । स्वद॑न्ति । दे॒वाः । उ॒भया॑नि । ह॒व्या ॥

सायणभाष्यम्

ये देवाः सुक्रतवः सुप्रज्ञाः सुकर्माणोवा शुचयो दीप्तिमन्तो धियंधाः कर्मणांधारयितारः उभयानि सौमिकानि च हविःसंस्थादीनि च हव्या हव्यानि स्वदंति स्वदयन्ति तेषामेषांमध्ये यज्ञैर्हविर्भिः स्तोत्रैर्वा यजतस्य यजनीयस्य नराशंसस्य नरैः प्रशंसनीयस्याग्निविशेषस्य महिमानं महत्त्वं उपस्तोषाम वयमुपस्तुमः तथा च यास्कः-नराआसीनाःशंसंत्यग्निरितिशाकपूणिर्नरैः प्रशस्योभवति तस्यैषा भवति नराशंसस्यमहिमानमेषामुपस्तोषामयजतस्य यज्ञैर्येसुकर्माणः सुचयो धियंधारयितारःस्वदयंतुदेवाउभयानिहवींषिसोमंचेतराणिचेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः