मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् ४

संहिता

स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ॑ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ ।
आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वम् ॥

पदपाठः

स॒प॒र्यवः॑ । भर॑माणाः । अ॒भि॒ऽज्ञु । प्र । वृ॒ञ्ज॒ते॒ । नम॑सा । ब॒र्हिः । अ॒ग्नौ ।
आ॒ऽजुह्वा॑नाः । घृ॒तऽपृ॑ष्ठम् । पृष॑त्ऽवत् । अध्व॑र्यवः । ह॒विषा॑ । म॒र्ज॒य॒ध्व॒म् ॥

सायणभाष्यम्

सपर्यवः परिचरणमिच्छन्तः अभिज्ञु अभिगतजानुकं भरणाः पादैर्भरन्तः बर्हिः नमसा हविषासहाग्नौ प्रवृञ्चते प्रभरन्ति । तदेव विशदयति हे अध्वर्यवः घृतपृष्ठं घृतसंसिक्तपृष्ठं पृषद्वत् स्थूलबिंदुभिर्युक्तं बर्हिर्हविषासह आजुह्वानाः मर्जयध्वं अग्निं परिचरत ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः