मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २, ऋक् ५

संहिता

स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता ।
पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ॥

पदपाठः

सु॒ऽआ॒ध्यः॑ । वि । दुरः॑ । दे॒व॒ऽयन्तः॑ । अशि॑श्रयुः । र॒थ॒ऽयुः । दे॒वऽता॑ता ।
पू॒र्वी इति॑ । शिशु॑म् । न । मा॒तरा॑ । रि॒हा॒णे इति॑ । सम् । अ॒ग्रुवः॑ । न । सम॑नेषु । अ॒ञ्ज॒न् ॥

सायणभाष्यम्

स्वाध्यः सुकर्माणः देवयन्तो देवकामाः यजमानाः रथयुः रथकामाश्च जसि पूर्वसवर्णोह्रस्वश्च देवताता देवतातौ यज्ञे दुरो यज्ञगृहद्वाराणि व्यशिश्रयुः आश्रितवन्तः । किं च समनेषु यज्ञेषु पूर्वी प्राचीने प्रागग्रे जूहूपभृतौ शिशुंन वत्समिव मातरौ गावौ रिहाणे अग्निं लिहाने अग्रवोनयथानद्यः क्षेत्राण्यदकेन तद्वत् समञ्चन् अध्वर्यव आज्येन समञ्चन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः